|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.309. अध्यायः 309
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति जीवानामज्ञाननिमित्तकानर्थप्राप्त्यादिप्रतिपादकवसिष्ठकरालजनकसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
वसिष्ठ उवाच। 12-309-0x(6491)(77919)
एवमप्रतिबुद्धत्वादबुद्धमनुवर्तनात्।
देहाद्देहसहस्राणि तथा समभिपद्यते॥ 12-309-1(77920)
तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि।
उपपद्यति संयोगाद्गुणैः सह गुणक्षयात्॥ 12-309-2(77921)
मानुषत्वाद्दिवं याति दिवो मानुष्यमेति च।
मानुष्यान्निरयस्थानमनन्तं प्रतिपद्यते॥ 12-309-3(77922)
कोशकारो यथाऽऽत्मानं कीटः समनुरुन्धति।
सूत्रतन्तुगुणैर्नित्यं तथाऽयमगुणो गुणैः॥ 12-309-4(77923)
द्वन्द्वमेति च निर्द्वन्द्वस्तासु तास्विह योनिषु।
शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे॥ 12-309-5(77924)
जलोदरे तृषारोगे ज्वरगण्डे विषूचके।
श्वित्रकुष्ठेऽग्निदग्धे च सिध्मापस्मारयोरपि॥ 12-309-6(77925)
यानि चान्यानि द्वन्द्वानि प्राकृतानि शरीरिषु।
उत्पद्यन्ते विचित्राणि तान्येषोऽप्यभिमन्यते॥ 12-309-7(77926)
अभिमन्यत्यभीमानात्तथैव सुकृतान्यपि॥ 12-309-8(77927)
शुक्लवासाश्च दुर्वासाः शायी नित्यमधस्तथा।
मण्डूकशायी च तथा वीरासनगतस्तथा॥ 12-309-9(77928)
चीरधारणमाकाशे शयनं स्थानमेव च।
इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा॥ 12-309-10(77929)
भस्मप्रस्तरशायी च भूमिशय्याऽनुलेपनः।
वीरस्थानाम्बुपङ्के च शयनं फलकेषु च॥ 12-309-11(77930)
विविधासु च शय्यासु फलगृद्ध्यान्वितस्तथा।
मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च॥ 12-309-12(77931)
शणवालपरीधानो व्याघ्रचर्मपरिच्छदः।
सिंहतचर्मपरीधानः पट्टवासास्तथैव च॥ 12-309-13(77932)
फलकपरिधानश्च तथा कण्टकवस्रधृत्।
कीटकार्पासवसनश्चीरवासास्तथैव च॥ 12-309-14(77933)
वस्राणि चान्यानि बहून्यभिमन्यत्यबुद्धिमान्।
भोजनानि विचित्राणि रत्नानि विविधानि च॥ 12-309-15(77934)
एकवस्रान्तराशित्वमेककालिकभोजनम्।
चतुर्थाष्टमकालश्च षष्ठकालिक एव च॥ 12-309-16(77935)
ष़ड्रात्रभोजनश्चैव तथैवाष्टाहभोजनः।
सप्तरात्रदशाहारो द्वादशाहिकभोजनः॥ 12-309-17(77936)
मासोपवासी मूलाशी फलाहारस्तथैव च।
वायुभक्षोऽम्बुपिण्याकदधिगोमयभोजनः॥ 12-309-18(77937)
गोमूत्रभोजनश्चैव शाकपुष्पाद एव च।
शेवालभोजनश्चैव तथाऽऽचामेन वर्तयन्॥ 12-309-19(77938)
वर्तयञ्शीर्णपर्मैश्च प्रकीर्णफलभोजनः।
विविधानि च कृच्छ्राणि सेवते सिद्धिकाङ्क्षया॥ 12-309-20(77939)
चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च।
चातुराश्रम्यपन्थानमाश्रयत्यपथानपि॥ 12-309-21(77940)
उपाश्रमानप्यपरान्पाषण्डान्विविधानपि।
विविक्ताश्च शिलाच्छायास्तथा प्रस्रवणानि च॥ 12-309-22(77941)
पुलिनानि विविक्तानि विविक्तानि वनानि च।
देवस्थानानि पुण्यानि विविक्तानि सरांसि च॥ 12-309-23(77942)
विविक्ताश्चापि शैलानां गुहा गृहनिभोपमाः।
विविक्तानि च जप्यानि व्रतानि विविधानि च॥ 12-309-24(77943)
नियमान्विविधांश्चापि विविधानि तपांसि च।
यज्ञांश्च विविधाकारान्विधींश्च विविधांस्तथा॥ 12-309-25(77944)
वणिक्पथं द्विजक्षत्रं वैश्यं शूद्रांस्तथैव च।
दानं च विविधाकारं दीनान्धकृपणादिषु॥ 12-309-26(77945)
अभिमन्यत्यसंबोधात्तथैव त्रिविधान्गुणान्।
सत्वं रजस्तमश्चैव धर्मार्थौ काम एव च॥ 12-309-27(77946)
प्रकृत्याऽऽत्मानमेवात्मा एवं प्रवि भजत्युत।
स्वधाकारवषट्कारौ स्वाहाकारनमस्क्रियाः॥ 12-309-28(77947)
याजनाध्यापनं दानं तथैवाहुः प्रतिग्रहम्।
यजनाध्ययने चैव यच्चान्यदपि किंचन॥ 12-309-29(77948)
जन्ममृत्युविवादे च तथा विशसनेऽपि च।
शुभाशुभमयं सर्वमेतदाहुः क्रियाफलम्॥ 12-309-30(77949)
प्रकृतिः कुरुते देवी भवं प्रलयमेव च।
दिवसान्ते गुणानेतानभ्येत्यैकोऽवतिष्ठते॥ 12-309-31(77950)
रश्मिजालमिवादित्यस्तत्तत्काले नियच्छति।
एवमेषोऽसकृत्सर्वं क्रीडार्थमभिमन्यते॥ 12-309-32(77951)
आत्मरूपगुणानेतान्विविधान्हृदयप्रियान्।
एवमेव विकुर्वाणः सर्गप्रलयधर्मिणी॥ 12-309-33(77952)
क्रियां क्रियापथे रक्तस्त्रिगुणांस्त्रिगुणाधिपः।
क्रियां क्रियापथोपेतस्तथा तदभिमन्यते॥ 12-309-34(77953)
प्रकृत्या सर्वमेवेदं जगदन्धीकृतं विभो।
रजसा तमसा चैव व्याप्तं सर्वमनेकधा॥ 12-309-35(77954)
एवं द्वन्द्वान्यथैतानि वर्तन्ते मयि नित्यशः।
ममैवैतानि जायन्ते धावन्ते तानि मामिति॥ 12-309-36(77955)
निस्तर्तव्यान्यथैतानि सर्वाणीति नराधिप।
मन्यतेऽयं ह्यबुद्धित्वात्तथैव सुकृतान्यपि॥ 12-309-37(77956)
भोक्तव्यानि मयैतानि देवलोकगतेन वै।
इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम्॥ 12-309-38(77957)
पुण्यमेव तु कर्तव्यं तत्कुत्वा सुसुखं मम।
यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति॥ 12-309-39(77958)
भविष्यति च मे दुःखं कृतेनेहाप्यनन्तकम्।
महद्दुःखं हि मानुष्यं निरये चापि मज्जनम्॥ 12-309-40(77959)
निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः।
मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः॥ 12-309-41(77960)
मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति।
य एवं वेत्ति नित्यं वै निरात्मात्मगुणैर्वृतः॥ 12-309-42(77961)
तेन देवमनुष्येषु निरये चोपपद्यते।
ममत्वेनावृतो नित्यं तत्रैव परिवर्तते॥ 12-309-43(77962)
सर्गकोटिसहस्राणि मरणान्तासु योनिषु।
य एवं कुरुते कर्म शुभाशुभफलात्मकम्॥ 12-309-44(77963)
स एवं फलमाप्नोति त्रिषु लोकेषु मूर्तिमान्।
प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम्।
प्रकृतिश्च तदश्नाति त्रिषु लोकेषु कामगा॥ 12-309-45(77964)
तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च।
त्रीणि स्थानानि चैतानि जानीयात्प्राकृतानिह॥ 12-309-46(77965)
अलिङ्गां प्रकृतिं त्वाहुर्लिङ्गैरनुमिमीमहे।
तथैव पौरुषं लिङ्गमनुमानाद्धि गम्यते॥ 12-309-47(77966)
स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम्।
व्रणद्वाराण्यधिष्ठाय कर्मणाऽऽत्मनि पश्यति॥ 12-309-48(77967)
श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाण्यथ।
वागादीनि प्रवर्तन्ते गुणेष्विह गुणैः सह॥ 12-309-49(77968)
अहमेतानि वै सर्वं मय्येतानीन्द्रियाणि ह।
निरिन्द्रियो हि मन्तेत व्रणवानस्मि निर्व्रणः॥ 12-309-50(77969)
अलिङ्गो लिङ्गमात्मानमकालः कालमात्मनः।
असत्वं सत्वमात्मानमतत्त्वं तत्त्वमात्मनः॥ 12-309-51(77970)
अमृत्युर्मृत्युमात्मानमचरश्चरमात्मनः।
अक्षेत्रः क्षेत्रमात्मानमसर्गः सर्गमात्मनः॥ 12-309-52(77971)
अतपास्तप आत्मानमगतिर्गतिमात्मनः।
अभवो भवमात्मानमभयो भयमात्मनः॥ 12-309-53(77972)
`अकर्ता कर्तृ चात्मानमबीजो बीजमात्मनः।'
अक्षरः क्षरमात्मानमबुद्धिस्त्वभिमन्यते॥ ॥ 12-309-54(77973)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नवाधिकत्रिशततमोऽध्यायः॥ 309॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-309-1 अबुद्धमनुवर्तत इति झ. ट. पाठः। अबुद्धं अबोधं अज्ञानम्। भावे निष्ठा न तेन नञ्समासः॥ 12-309-2 गुणक्षयात् गुणसामर्थ्यात्। क्षि क्षयैश्वर्ययोरित्यैश्वर्यार्थस्य क्षिधातो रूपम्॥ 12-309-6 यक्ष्मापस्मारयोरपि इति ध. पाठः॥ 12-309-7 तान्येषोऽप्यभिपद्यते इति ध. पाठः॥ 12-309-9 मण्डूकवत्पाणिपादं संकोच्यन्युब्जः शेते इति मण्डूकशायी॥ 12-309-10 आकाशे निरावरणेदेशे॥ 12-309-12 फलगृद्ध्या फलाशा॥ 12-309-13 शाणीवालपरीधान इति झ. पाठः॥ 12-309-14 फलकं भूर्जत्वगादि॥ 12-309-19 आचामेन भक्तमण्डेन॥ 12-309-24 गृहेषु ये निभाः नितरां भान्ति ते। दिव्यगृहोपमा इत्यर्थः॥ 12-309-30 विशसने संग्रामे॥ 12-309-31 भवं सृष्टिम्। अभ्येत्य ग्रसित्वा॥ 12-309-34 क्रियापये कर्ममार्गे॥ 12-309-39 यावद्दानस्य मे सौख्यं इति ट. ड. थ. पाठः॥ 12-309-51 अगतिर्गतिमात्मन इति ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|